कालशब्दात् यत् प्रत्ययो भवति तदस्य प्राप्तम् इत्यस्मिन् विषये। कालः प्राप्तो ऽस्य काल्यः तापः। काल्यं शीतम्।
कालाद्यत्। तदस्य प्राप्तमित्येव। प्रतमान्तात्कालशब्दादस्य प्राप्त इत्यर्थे यदित्यर्थः। प्रातःकाले काल्यशब्दस्तु कल्यवदव्युत्पन्नं प्रातिपदिकम्। कल्यमेव काल्यं वा।